सूत्रम्
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्॥ ८।१।१३
काशिका-वृत्तिः
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ८।१।१३
प्रिय सुख इत्येतयोः अन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये। कृच्छ्रं दुःखम्, तदभावः अकृच्छ्रम्। प्रियप्रियेण ददाति। सुखसुखेन ददाति। प्रियेण ददाति। सुखेन ददाति। अखिद्यमानो ददाति इत्यर्थः। अकृच्छ्रे इति किम्? प्रियः पुत्रः। सुखो रथः।
न्यासः
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्?। , ८।१।१३
नञत्र विपक्षे वत्र्ततेऽधर्मानृतादिवत्()। कृच्छ्रम्()=दुःखम्(), प्रयत्नः=प्रयास इत्यर्थः; स पुनः प्राणिधर्मः। कृच्छ्रविपक्षोऽकृच्छ्रम्(); प्राणिधर्म एव, यस्मिन्? सति प्रयत्नमन्तरेणैव दानादिक्रियां सम्पादयति। तत्र वत्र्तमानयोः प्रियखशब्दयोद्र्वे भवतः। प्रियप्रियेण ददाति। विना प्रयासेन ददातीत्यर्थः। तृतयैकवचनान्तस्य द्विर्वचने कृते सुब्लकि च पुनस्तृतीयैकवचनमेव समासवद्भावेन भवति। "प्रियः पुत्रः, सुखो रथः" इति। नात्र प्रियसुखशब्दौ कृच्छ्रविपक्षे प्राणिधर्मविशेषे वत्र्तते, किं तर्हि? द्रव्ययोः। पुत्रो हि प्रीणातीति कृत्वा प्रिय इत्युच्यते, रथोऽपि सुखयतीत कृत्वा सुखः॥
बाल-मनोरमा
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् , ८।१।१३
अकृच्छ्रे। कृच्छ्रं-कष्टम्। अकृच्छ्रम्-अनायासः। तस्मिन्वर्तमानयोः प्रिय सुख इत्यनयोद्र्वे वा स्तः। कर्मधारयवद्भावादिति। "कर्मधारयवदुत्तरेषु" इत्यधिकारादिति भावः। "समासवच्च बहुल"मित्यतः समासवदित्यनुवृत्तिस्तु न शङ्क्या, तस्य वार्तिकस्थत्वात्, एवं च "प्रियेणे"त्यस्य "सुखेने"त्यस्य च द्वित्वे सति कर्मधारयवत्त्वात्सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात्तृतीयैकवचनमिति फलितम्।